नववाण्या‌ः दशमं वार्षिकदिनम्।

इरिङ्ङालक्कुटा – फिब्रुवरी १० दिनाङ्कः नववाण्याः दशमं जन्मदिनं भवति। २०१० फेब्रुवरी १० दिनाङ्के एव नववाणी इति जालपुटस्य औपचारिकम् उद्घाटनमभवत्। तृशूर् मण्डले इरिङ्ङालक्कुटा विद्याभ्यासमण्डलस्य संस्कृतं कौण्सिल् नेतृत्वे समायेजितो/यं जालपुटः अद्य शाखोपशाखाभिः विवर्धमानः वर्तते। अस्य प्रायोजकः सी.वी. जोस् वर्यः अन्तर्जाललोके संस्कृतस्यापि अद्वितीयं स्थानमस्तीति सर्वान् संस्कृतशिक्षकान् अस्मारयत्।

     नूतनया साङ्केतिकविद्यया पठनप्रवर्तनानि आयोजयितुं सहायकानि बहूनि कार्याणि अस्मिन् जालपुटे सन्ति।  वर्षद्वयात् पूर्वं अस्य मोबैल् आप् तथा मोबैल् व्यू अपि प्रवृत्तिपथमानीतं वर्तते। येन सङ्गणकानां साहाय्यं विनैव अतितान्त्रिकरीत्या पाठयितुम् अध्यापकाः प्रभवन्ति।

     श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालयस्य तदानीन्तनः कुलपतिः तथा राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः अधुनातनः निदेशकः डो. जे. प्रसाद् वर्यः २०१० फेब्रुवरी १० दिनाङ्के इरिङ्ङालक्कुटायां नववाणी जालपुटस्य उद्घाटनं व्यदधात्। डो. के.जी. पौलोस् वर्यः अपि सन्निहितः आसीत्।

     दशमे अस्मिन् जन्मदिने अनुवाचकेभ्यः आशंसामर्पयामः।

Leave a Reply

Your email address will not be published. Required fields are marked *