देशीयसंगोष्ठी सुसम्पन्ना।

कासरगोड् – सार्वजनीनशिक्षाविभागस्य संस्कृतकौण्सिल् इत्यनेन आयोजिता संगोष्ठी अत्र सुसम्पन्ना। नियमसभासामाजिकः श्री एन्.ए. नेल्लिक्कुन्न् वर्यः समुद्घाटकः आसीत्। उद्घाटकेन भाषितं यतदन्येषां भाषाणामपेक्षया श्रोतुं मधुरतरा भवति संस्कृतभाषा। पूर्वतनशिक्षामन्त्रिणा इ.टि. मुहम्मद् बषीर् वर्येण संस्कृतसर्वकलाशालायाः साक्षात्कारार्थं बहुप्रयत्नं कृतम्।  नैको∫पि भाषा ईश्वरेण सृष्टा। सर्वा∫पि भाषाः मनुष्यैरेव निर्मिता अस्ति। अतः सर्वाः भाषाः सर्वेभ्यो प्राप्तव्याः इति श्री नेल्लिक्कुन्नु वर्यः उद्बोधषितवान्। प्रथमकक्ष्यातः आरभ्य संस्कृतपठनाय शिक्षकाणां नियुक्तिविषये प्रयत्नं करिष्यतीति सः वाग्दानं प्रकटितवान्।

मुख्यप्रभाषक आसीत् प्रमुखः कैरलीलिपिकारः श्री वि.आर् सुधीष् वर्यः। साहित्यमण्डले शोभमानाः गिरिशृङ्गाः भवन्ति संस्कृतपुराण-इतिहास-वाङ्मयाः इति सुधीष् वर्येण प्रोक्तम्। कालिदासादिभिः महाकविभिः सर्वैः मनुष्याणां शोकः एव अनुधावित आसीदिति सो∫ब्रवीत्। कुट्टिक्कृष्णमारार् महोदयेन साकं अन्ये कैरलीसंस्कृतकारेण दीप्ते पथि अस्माभिः इतो∫पि सञ्चारं करणीयमिति मुख्यप्रभाषकेण प्रोद्घोषयत्।

संस्कृतभाषापोषणे विघाताः परिहाराश्च इत्यस्मिन् विषये डो. रामचन्द्रलु बालाजि वर्येण, पुनः परिभाषया परिलसन्त्यः संस्कृतकृतयः इत्यस्मिन् विषये डो. इ.श्रीधरन् वर्येण च प्रबन्धौ साक्षात्कृतौ। श्री विजयन् वि. पट्टाम्पि, श्री प्रदीपकुमारः, श्री एन्.के रामचन्द्रः, श्री हरिप्रसाद् कटम्पूर् च चर्चायां भागमावहन्।

कार्यक्रमे बीफात्तिमा इब्राहीम्, डो. गिरीष् चोलयिल् श्री वि.  श्रीकण्ठः सुनिल्कुमार् कोरोत्त्, टि.डि. सुनीतिदेवी प्रभृतयः भाषणमकुर्वन्। योगानन्तरं संस्कृतकलाकार्यक्रमाः अपि प्राचलन्।

Leave a Reply

Your email address will not be published. Required fields are marked *