भारतसमुद्रतलं २.८ पादपरिमतं उूर्ध्वं गच्छेत्। दक्षिणकेरले महती भीषा।

नवदिल्ली- अन्तरिक्षे आगोलतापनस्य काठिन्येन अस्य शतकस्य अन्ते केरलानभिव्याप्य भारतीयसमुद्रतीरेषु समुद्रतलम २.८ पादं यावत् उन्नतिं प्राप्स्यति इति केन्द्रसर्वकारस्य जाग्रतानिर्देशः। अनेन बहवः प्रदेशाः जलाप्लाविताः भवेयुः इति अनुमीयते। दक्षिणकेरलस्य तीरप्रदेशाः महाभीषायां वर्तन्ते इति आवेदनेन सूचयति। मुम्बै प्रभृतयः पश्चिमतीरप्रदेशेषु गुजरात् राज्यस्थे कच् खंबत् प्रदेशयोः, कोङ्कणदेशे च भीषा वर्तते।
हैदरबाद् आस्थानत्वेन प्रवर्तमानायाः इन्कोय्स् इति संस्थायाः पठनानुसारमेव परिस्थितिमन्त्री महेश् शर्मावर्यः लोकसभायाम् इदमावेदयत्।गङ्गा, कृष्णा, कावेरी, गोदावरी, महानदीप्रभृतीनां तीराण्यपि भीषाप्रदेशा एवेति आवेदनमस्ति।

पर्यावरणस्य व्यतियानमेव अस्य प्रतिभासस्य कारणं स्यादिति पठनं सूचयति।

Leave a Reply

Your email address will not be published. Required fields are marked *