अद्य राष्ट्रिय गणितशास्त्रदिनम् आचर्यते।

नवदिल्ली- गणितशास्त्रमण्डले सार्वकालिकः अद्भुतप्रतिभासः भवति श्रीनिवास रामानुज वर्यः। तस्य महात्मनः जन्मदिनं भवति दिसम्बर् २२। २०१२ तमे वर्षे तस्य १२५ तमं जन्मवार्षिकम् आभारतम् आचरितम्। अपि च तद्दिनं राष्ट्रिय गणितशास्त्रदिनत्वेन उद्घुष्टं सर्वकारैः।

     वैदिककालादारभ्य अनुस्यूतं प्रवहितायाः विज्ञानधारायाः अन्तिमा सृणिः आसीत् अयं महाभागः। चतुर्दशशतकादारभ्य अष्टादशशतकारम्भं यावत् कालघट्टः भारतीयगणितशास्त्रेतिहासे प्रोज्वलः अध्यायः आसीत्। ततः प्रवर्धिता विकसिता च भवति केरलीय गणितशास्त्र सरणिः। एषा गुरुशिष्यपरम्परा संगमग्राममाधवद्वारा उदिता। एष एव कालः यूरोपीयीधिनिवेशस्यापि काल आसीत्। अतः सुवर्णयुगस्यास्य तिरस्कारः अभवत्। अधिनिवेशशक्तयः एतद्देशीयान् राजनैतिकाधिकारान् व्यभञ्जयन् तथा धैषणिककार्याणि अवामन्यन्त च। ततः परं शतकान् यावत् भारतीयगणितशास्त्रे नवीनचिन्ताधाराः नोदिताः

     पुनः श्रीनिवासरामानुज एव एतां चिन्ताधारां पुनराविष्कृतवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *