नववर्षे पलास्तिककूपीजलस्य निरोधः।

तिरुवनन्तपुरम्- २०१९ जनुवरि प्रथमदिनाङ्कादारभ्य पलास्तिककूप्यां जलविक्रयः निरुद्धः। तत्स्थाने स्फाटिक-कूप्यां जलवितरणं कर्तुम् अधिकारिणां निर्णयः। परिस्थिति संरक्षणनियमस्य विभागः ५ अनुसृत्य निरोधलङ्घने दण्डरूपेण अनुमतिं प्रत्यावर्तेत।

     जनुवरि प्रथमदिनाङ्कादारभ्य स्फाटिककूप्यामेव जलवितरणं साध्यं भवति। मलिनीकरण नियन्त्रण विभागः एतदनुसारं विज्ञापनमदात्।

     ५०० तल्पादधिकयुक्तः चिकित्सालयः, नौकागृहम् इत्यादीन्यपि नियन्त्रणपरिधौ आयान्ति। विनोदसञ्चार-केन्द्रेषु एकवारम् उपयुज्यमानानां पलास्तिकोत्पन्नानाम् उपयोगः अपि निरुद्धः। स्फाटिककूपीनाम् अणुनाशनाय सौविध्यमायोजयितुमपि निर्देशः अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *