संसद् मन्दिरं प्रति कृषकाणां पथसञ्चलनम्।

नवदिल्ली- कृषकाणां समस्याः चर्चितुं संसदः पृथक् अधिवेशनम् आयोजनीयम् इति आवश्यमुन्नीय कृषकाः अद्य संसदं प्रति पथसञ्चलनं विधास्यति।

     कृषकैः अभिमुखीक्रियमाणाः समस्याः बहवः सन्ति। तासां परिहारार्थं पृथगधिवेशनम् आवश्यकमित्येव तेषाम् आवेदनम्। अखिलभारतीय-कृषकसंघसंयोजनसमितेः नेतृत्वे एव प्रक्षोभः। २०७ संघटनानां संयोजनेनैव समितिरेषा प्रवर्तिता। २१ राजनैतिकदलानि प्रक्षोभार्थं योगदानं विधास्यन्ति।

     पृथक् संसन्मेलनमायोजनीयं, पथसञ्चलने भागं गृहीतव्यम् इति च सूचयन्ती समितिरेषा प्रधानमन्त्रिणं नरेन्द्रमोदीवर्यं विपक्षदलनेतारं राहुल् गान्घीवर्यं च अभ्युपगमत्।

     दिल्लीप्रान्तेषु पञ्चभ्यः केन्द्रेभ्यः सहस्रपरिमिताः कृषकाः पद्भ्यां चलन्तः रामलीला अधिवेशनस्थलं प्रापन्। ततः लक्षपरिमिताः ते संसदं प्रति पथसञ्चलनं करिष्यन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *