तमिल् नाटु राज्ये नाशं वितीर्य गज चक्रवातः. अर्धलक्षाधिकान् जनान् परिवर्त्य आवासयत्।

चेन्नै- तमिल् नाटु राज्ये नागपट्टणं, कटलूर्, रामनाथपुरं तथा पुतुच्चेरिस्थे कारक्कल् प्रभृतिषु स्थलेषु नाशं वितीर्य गज इति चक्रवातः तीरमागतः। प्रतिहोरं ११० कि.मी. वेगे वीजिते वाते सहस्रपरिमितानां प्रासादानां हानिः संजाता। वृक्षाः उन्मूल्य पतिताः। चेन्नै प्रभृतिषु स्थलेषु महावृष्टिरपि सञ्जाता।

     तमिल् नाटु-केरल सीमाप्रान्तेषु शुक्रवासरे अपि घोरा वृष्टिः भविता इति वातावरणविभागस्य सूचना।

     पञ्चदिनात् पूर्वं वंगसमुद्रे चेन्नैतः ९२५ कि.मी. दूरे गज चक्रवातः समापन्नः। तमिल् नाटुस्थे कटलूर् तथा आन्ध्रथे श्रीहरिक्कोट्टा स्थलस्य च मध्ये चक्रवातः भविष्यति इत्यासीत् पूर्वप्रवचनम्। ततः वातस्य गतिः परिवृत्य नागपट्टणं कटलूर् तीरं प्रति प्रस्थितः। बस्-रेल् यानानि सेवनम् स्थगितानि।

     चक्रवातदुरितमालक्ष्य बहुषु प्रान्तेषु विद्यालयानां विरामः घोषितः। तथा विश्वविद्यालयानां परीक्षा परिवर्तिता च।

Leave a Reply

Your email address will not be published. Required fields are marked *