देवताभिर्न रक्ष्यते – 17-11-2018

 

नूतना समस्या –

“देवताभिर्न रक्ष्यते”

ഒന്നാംസ്ഥാനം

शीलं प्रधानं पुरुषे
शीलमेव परं धनम्।
मनुजैः परिपाल्यं तत्
देवताभिर्न रक्ष्यते।।

Narayanan Namboothiri

“അഭിനന്ദനങ്ങള്‍”

15 Responses to देवताभिर्न रक्ष्यते – 17-11-2018

  1. एम्, शंकरनारायणन नंपूतिरि, चप्पारप्पटव् कण्णूर् says:

    മൂന്നാംസ്ഥാനം

    मानवायाहितं नित्यं
    य करोति पुमान् सदा।
    तस्य पुरोगतिर्नास्ति
    देवताभिर्न रक्ष्यते।।

  2. अनन्तु माप्राणम्। says:

    विना जलं विना वायुं
    विना मलिनमुक्तं पृथाम्।
    न कोfपि देवता भूमौ
    देवताभिर्न रक्ष्यते।।

  3. Dawn Jose says:

    ലോകേ പ്രത്യക്ഷദൈവതം
    സകലജീവജാലയുതം
    രക്ഷ പരിസ്ഥിതിം നോ ചേത്
    ദേവതാഭിര്‍ന രക്ഷ്യതേ

  4. Anitha Parakkal says:

    രണ്ടാംസ്ഥാനം

    स्वास्थ्यं तु सर्वजन्तूनां
    सुखजीवनहेतुकम्।
    महायत्नेन रक्ष्यं तत्
    देवताभिर्न रक्ष्यते।।

  5. देविका टी.पी says:

    पावनञ्च पुराणञ्च
    श्रेष्ठं शबरिमन्दिरम्।
    भक्तैश्च परिपाल्यं तत्
    देवताभिर्न रक्ष्यते।।

  6. श्रीजा मुम्बै। says:

    यत्नेन महता कार्यं
    सम्पत्तेस्तु समार्जनम्।
    सावधानैस्तु तद्रक्ष्यं
    देवताभिर्न रक्ष्यते।।

  7. കരുണാകരന്‍ കോട്ടയം says:

    ഭൂമിഃ വായുഃ ജലം ചൈവ
    സ്വച്ഛം ശുദ്ധം ച പാലയ
    തദ്വിപരീതകൃതാഃ തു
    ദേവതാഭിര്‍ന രക്ഷ്യതേ

  8. अनस् मुहम्मद् says:

    करुणार्हान् जनान् सर्वान्
    अस्माभिः रक्षणं कार्यम्।
    मानवसेवनं मर्त्यैः
    देवताभिर्न रक्ष्यते।।

  9. पुरुषोत्तमः मुम्बै। says:

    संस्कृतं सर्वभाषाणां
    जननीति सदा श्रुतम्।
    अस्माभिः रक्षणं कार्यं
    देवताभिर्न रक्ष्यते।।

  10. पुरुषोत्तमः मुम्बै। says:

    नववाणी नवा रम्या
    सङ्गमग्रामयोनिजा।
    तैरेव रक्षणं कार्यं
    देवताभिर्न रक्ष्यते।।

  11. ज्योत्स्ना के.एस् says:

    वस्त्रं वपुः जलं भूमिः
    सर्वं तदुपकारकम्।
    युष्माभिः पालनीयं तत्
    देवताभिर्न रक्ष्यते।।

  12. नारायणन् नम्पूतिरिः। says:

    ഒന്നാംസ്ഥാനം

    शीलं प्रधानं पुरुषे
    शीलमेव परं धनम्।
    मनुजैः परिपाल्यं तत्
    देवताभिर्न रक्ष्यते।।

  13. सुरेष् बाबू। says:

    जीवो हि सर्वभूतेषु
    समत्वेनावतिष्ठते।
    हिताहारेण रक्ष्यः स
    देवताभिर्न रक्ष्यते।।

  14. विजयन् वि पट्टाम्बि says:

    आचारः परमो धर्मः
    जीवनाधारसाधकः।
    भक्तैस्तु परिपाल्य सः
    देवताभिर्न रक्ष्यते।।

  15. Devapriya J S says:

    വേഗേ പ്രളയമാപ്നോതി
    നിമജ്ജന്തി ജനാഃ ജലേ|
    നാശം കിമപി കൃതം ചേത്
    ദേവതാഭിഃ ന രക്ഷ്യതി

Leave a Reply

Your email address will not be published. Required fields are marked *