भा.ज.पा. दल- राष्ट्रियनेतृत्वस्य अभिप्रायं विरुध्य टि.जि. मोहन्दास्।

शबरिमलामन्दिरे स्त्रीप्रवेशविषये सर्वोच्चन्यायालयस्य न्यायविधिं स्वागतीकृतस्य भा.ज.पा. दल- राष्ट्रियनेतृत्वस्य अभिप्रायं विरुध्य राज्यस्तरीय भा.ज.पा.दलसदस्याः प्रक्षाभं कुर्वन्ति। तदन्तरे दलस्यास्य बौद्धिकप्रमुखः टी.जी. मोहन्दास् वर्यः अनुकूलवादेन सह रंगमागतः। स्त्रियः शबरिमलायां गच्छन्ति स्म। सप्तवर्षपर्यन्तं अय्यप्पः ब्रह्मचारी नासीत्। शबरिमलशास्तृसङ्कल्पः कलत्रद्वयेन अर्भकेण च युतः एव। अय्यप्पः नैष्ठिकब्रह्मचारी चेत् मालिकप्पुरत्तम्मा तत्र कथमुपविशति इत्यादिकं स उन्नेति।
रिप्पोर्टर् माध्यमेन आयोजितायां चर्चायां भागं वहन् स अब्रवीत् यत् शबरिमलायां स्त्रीणां रोधनं कुर्वाणाः इतिहासमाच्छादयन्ति इति। तत्र स्त्रियः न प्राविशन् इति वादः अलीक एव, यात्रादुर्धटेन न्यूनसंख्यका एव आगता इत्येव याथार्थ्यम्।

लीला मेनन् इति पत्रिकाकारा ५० वर्षवयसः पूर्वं तत्र गत्वा वार्ताम् आवेदयति स्म इति तस्याः आत्मकथायां सूचना अस्तीत्यपि स अवोचत्।

Leave a Reply

Your email address will not be published. Required fields are marked *