सर्वं भवतु मङ्गलम् – 27-10-2018

സമസ്യാപൂരണമത്സരം അമ്പതാം എപ്പിസോഡിലേക്ക് ഏവര്‍ക്കും സ്വാഗതം…👍👍

नूतना समस्या –

“सर्वं भवतु मङ्गलम्”

ഒന്നാംസ്ഥാനം

तत्त्वमसीति सद्वाक्यं
अर्थपूर्णं हि स्वीकुरु।
नरनारीप्रभेदादि
सर्वं भवतु मङ्गलम्।।

Satwik Bijoy

“അഭിനന്ദനങ്ങള്‍”

10 Responses to सर्वं भवतु मङ्गलम् – 27-10-2018

  1. सात्विक् बिजोय् says:

    ഒന്നാംസ്ഥാനം

    तत्त्वमसीति सद्वाक्यं
    अर्थपूर्णं हि स्वीकुरु।
    नरनारीप्रभेदादि
    सर्वं भवतु मङ्गलम्।।

  2. ऱबिकुमारः मानाङ्काट्टिल् says:

    धनलाभो गृहानाञ्च
    निर्मितिः जनसेवनम्।
    विदेशाद्धनलाभेन
    सर्वं भवतु मङ्गलम्।।

  3. Mariya K W says:

    പ്രശ്നോത്തരം സമസ്യാ ച
    സംവാദോfപി നിരന്തരം
    സര്‍വേഷാം സഹഭാവേന
    സര്‍വം ഭവതു മംഗളം

  4. Harshan namboothiri says:

    छात्राणां विमतिः द्वेषः
    अतृत्प्तिःपठनेषु च।
    सर्वदोषान् विहायैव
    सर्वं भवतु मङ्गलम्।।

  5. Leena Davis says:

    राजनैतिकसङ्घानां
    भाषणं दूषणादिकम्।
    नेतृपाटवलाभेन
    सर्वं भवतु मङ्गलम्।।

  6. ज्योत्स्ना के एस् says:

    उच्चारणं तथा लेखः
    पदसञ्चयवर्धनम्।
    संस्कृतपठनादेव
    सर्वं भवतु मङ्गलम्।।

  7. श्रीजा मुम्बै। says:

    രണ്ടാംസ്ഥാനം

    यात्रासुखं क्लमापायौ
    यानानां परिपालनम्।
    नवीकरणयत्नेन
    सर्वं भवतु मङ्गलम्।।

  8. वेणू मुम्बै। says:

    नटीनां रोदनं दोषः
    मातरि कोपनं तथा।
    नवचित्रप्रदानेन
    सर्वं भवतु मङ्गलम्।।

  9. विजयन् वि. पट्टाम्बि says:

    यात्रा वासः तथा देव-
    दर्शनं चार्चनं तथा।
    सर्वकारप्रयत्नेन
    सर्वं भवतु मङ्गलम्।।

  10. विजयन् वि. पट्टाम्बि says:

    മൂന്നാംസ്ഥാനം

    पूजा चैवार्चना स्नानं
    क्षेत्राचारस्य रक्षणम्।
    देवतानुग्रहादेव
    सर्वं भवतु मङ्गलम्।।

Leave a Reply

Your email address will not be published. Required fields are marked *