ऐषमः बालामणियम्मापुरस्कारः श्रीकुमारन् तम्पी वर्याय।

कोच्ची- अस्मिन् वर्षे बालामणियम्मा पुरस्कारः श्रीकुमारन्  तम्पी वर्याय। प्रसिद्धः कविः गानकारश्च भवति अयं महाभागः। ५०००१ रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवतः। कैरलीसाहित्यरंगे समग्रं योगदानम् अभिलक्ष्यैवायं पुरस्कारः।

     सी. राधाकृष्णः. के.एल्. मोहनवर्मा, एस्. रमेशन् नायर् के. राधाकृष्णः इत्येतैः युक्ता समितिरेव पुरस्कारविजेतारं निरणयत्। नवम्बर् ८ दिनाङ्के सम्पत्स्यमाने अन्ताराष्ट्र- पुस्तकोत्सवे पुरस्कारसमर्पणं भविता। पूर्वं चलचित्ररंगस्य समग्रयोगदानमभिलक्ष्य जे. सी. डानियेल् पुरस्कारो/पि अनेनैव प्राप्तः।

     ५० वर्षाणि यावत् मलयालचलचित्ररंगे सजीवं सान्निध्यं भवति श्रीकुमारन् तम्पी वर्यः। ७८ चलचित्राणां कृते अनेन पटकथा लिखिता। १९७१ तथा २०११ वर्षयोः श्रेष्ठः गानकारः इति पुरस्कारमपि अयमेव अलभत।

Leave a Reply

Your email address will not be published. Required fields are marked *