समरस्य आलम्बनेन सह बह्यः कन्यास्त्रियः आगताः।

कोच्ची- कन्यास्त्रीपीडनविषये जलन्धर् मुख्यपुरोहितस्य निग्रहः विलम्बते इति कारणेन समरं कृतवतीनां कन्यास्त्रीणाम् आलम्बनमुद्घोषयन्त्यः वह्यः कन्यास्त्रियः प्रमुखाः नेतारश्च रङ्गमागताः। संयुक्तक्रैस्तवसमितेः नेतृत्वे उच्चन्यायालयपरिसरे सम्पद्यमानः समरः दिनचतुष्टयमतीताः

अस्मिन्नन्तरे कन्यास्त्रियः परिवारः उच्चन्यायालये आवेदनं कर्तुं स्वीकृतः निर्णयः जहाति स्म। सर्वकारात् सभायाः वा नीतिमलभमानाः एव एताः प्रत्यक्षप्रतिषेधेन रङ्गमागताः। रक्षिपुरुषाः व्यवहारं विपरिणमयितुं यतन्ते इति परिवारस्याक्षेपः।

कन्यास्त्रीणां समरमनुबन्ध्य रक्षिदलं सर्वकारश्च किमकुरुताम् इति बोधनार्थं उच्चन्यायालयेन निर्दिष्टम्। अस्मिन् विषये स्वीकृतः उद्यमः सूचनीयः इत्यपि न्यायालयेन निर्दिष्टम्। गुरुवासरे व्यवहारं पुनरालोच्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *