अद्य अध्यापकदिनम्। सुशोभनं भविष्यकालम् उत्पश्यामः।

तिरुवनन्तपुरम्- अद्य सेप्तम्बर् ५ दिनाङकः शिक्षकदिनत्वेन आचर्यते आभारतम्। विशिष्टः अध्यापकः भूतपुर्वः राष्ट्रपतिः तथा विश्वोत्तरः तत्वचिन्तकश्चासीत् डो. सर्वप्पल्ली राधाकृष्णन् वर्यः। तस्य महात्मनः जन्मतिथिरेव वयम् अध्यापकदिनत्वेन आचरामः। बालकानां शिक्षणं प्रशिक्षणं तेषां संवर्धनादिकं च अध्यापकस्य कर्तव्यानि भवन्ति। अनेनैव नूतनां गुणयुक्तां परम्परां संवर्धयितुं शक्यते।

विज्ञानस्याधारेणैव विश्वस्य प्रगतिः। तादृशीं सामाजिकघटनां प्रति विश्वस्य प्रयाणे अध्यापकानां योगदानम् अधिकं वर्तते। किन्तु अध्यापकानां सामान्यावस्था अद्य आशाकरी नास्ति। वृत्यनुरूपं वेतनं न लभ्यते इत्यतः समर्थाः अध्यापनं प्रति प्रायः विभुखतां प्रकटयन्ति। न केवलं ज्ञानेन उत्तमशिक्षको भवितुमर्हति। महाकवेः कालिदासस्य वचने उत्तमः शिक्षकः एवम् –
शिष्टा क्रिया कस्यचिदात्मसंस्ता
संक्रान्तिरन्यस्य विशेषयुक्ता।
यस्योभयं साधु स शिक्षकाणां
धुरि प्रतिष्ठापयितव्य एव।। इति।
अत एव अध्यापनाय अयोग्याः यदि पाठयन्ति तर्हि सा शिक्षा महती न भवति। तमेव सन्देशम् इदमध्यापकदिनं प्रददाति।

अद्ध्यापकाः आदर्शपुरषाः भवेयुरिति डो. राधाकृष्णवर्यस्याभिप्रायः। अतः प्रशिक्षितः कर्तव्यबोधयुक्तः अध्यापनकर्मणि स्निह्यमानश्च जनः विद्यालयेषु पाठयितुम् आगच्छेत् इत्येव अस्मिन् दिवसे अस्माकं सन्देशः।

सर्वेभ्यो अध्यापकदिऩाशंसाः।

One Response to अद्य अध्यापकदिनम्। सुशोभनं भविष्यकालम् उत्पश्यामः।

  1. വിജയൻ വി പട്ടാമ്പി says:

    സാഹിത്യ സ്പർശി വാർത്താ വ ത ര ണം! അഭിനന്ദനങ്ങൾ!

Leave a Reply

Your email address will not be published. Required fields are marked *