शिक्षकशिल्पशाला सुसम्पन्ना।

एरणाकुलम् – विद्यालयेषु संस्कृतपठनं शक्तं सफलं च विधातुं यानि प्रवर्तनानि अस्मिन्वर्षे समायोजनीयानीति विचिन्तनाय सामान्यविद्याभ्यासस्थेन संस्कृतविभागेन काचित् शिल्पशाला एरणाकुलस्थे  शैक्षिकभवने समायोजिता। २०१८ जूलाई मासस्य २७,२८ दीनाङ्कयोः समायोजिता राज्यस्तरीया द्वितीया शिल्पशालेयं  प्रथमदिने दशवादने संस्कृतविद्याभ्यासस्य विशिष्टाधिकारिण्या डो. टि.डी सुनीतिदेवीवर्यया समुद्घाटिता∫भवत्।

     काव्यास्वादनं, अव्ययस्वरूपं प्रयोगाः, उपसर्गाः, समस्यापूरणं, धातुगणाः चाधारीकृत्य समर्थाः चर्चाः, रचनाश्च तत्र सम्पन्नाः। उत्तरकेरलस्य विविधप्रान्तेभ्यः त्रिंशदधिकाः शिक्षकाः तत्र भागमभाजन्त। सार्वजनीनशिक्षा अतिरिक्तनिदेशिका (Additional director) श्रीमती जेस्सी जोसफ् शिल्पशालामेत्य आवश्यकं निर्देशमदात्। शिल्पशालायाम् आसूत्रितानि प्रवर्तनानि प्रवृत्तिपथमानेतुं शिक्षका सर्वे सुसज्जाः जाताः।

     प्रोफ. वि माधवन् पिल्ला, डो. नारायणन् नम्पूतिरिः, श्री एन्.के रामचन्द्रः, श्री विजयन् वि. पट्टाम्बि, डो. टि.डी सुनीतिदेवी च चर्चायै नेतृत्वमावहन्। एतत्सदृश्यः शिल्पशालाः शिक्षकान् पठनप्रवर्तनेषु समर्थान् कर्तुं अत्यन्तमुचिताः पौनपुन्येन समायोजनीयाश्चेति निरीक्षितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *