संस्कृतसङ्धस्याभिमुख्ये रामायणसंवादः।

तृशूर्- रामायणं भारतीयानाम् आत्माभिमानरूपं काव्यं भवति।
यावत्स्थास्यन्ति गिरयः सरितश्च महीतले।
तावद्रामायणकथा लोकेषु प्रचरिष्यति।। इति वाल्मीकिकवेः प्रतिज्ञा कवेः वचनेनैव वयं जानीमः। सहजस्नेहस्य मानविकतायाः च प्रस्रवः एव वाल्मीकिरामायणम्। अत एव रामायणमिव मानवमनांसि एतावन्तं मथितं रचनान्तरं नास्ति। क्रौञ्चद्वन्द्ववियोगोक्तः शोकः एव श्लोकरूपेणागतः। तदेव रामायणम्। रामकथायाः प्रशस्तिः अन्तरार्थं च केवलं भारते एव नैव तिष्ठति। भाषायाः प्रादेशिकतायाःच उपरि सर्वान् मानवान् प्रति प्रसार्यमाणं जीवितवीक्षणमेव रामायणम्। तुलसीदास- कम्प-एषुत्तच्छप्रभृतयः विभिन्नभाषाभ्यः आविष्कृता एषा कथा सर्वेषां मातृका भवति।
केरलसंस्कृतसंघस्य आभिमुख्ये २०१८ जूलै २८ दिनाङ्के शनिवासरे तृशूर् ब्रह्मस्वं मठं प्रासादे श्रीचन्द्र हाल् मध्ये रामायणस्य सन्देशः इति विषये संवादः आयोजितः। संवादस्य उद्घाटनं केरल शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः निर्वक्ष्यति। केरलकलामण्डलं कल्पितसर्वकलाशालायाः आक्षपटलिकः डो.के.के. सुन्दरेशः अध्यक्षो भविता। केरल साहित्य अक्कादमी कार्यदर्शी डो. के.पी. मोहन् वर्यः संवादविषयमधिकृत्य मुख्यभाषणं करिष्यति। कविता मोहन् कृतज्ञतां च व्याहरिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *