निपा विषाणुप्रतिरोधः केरलस्य विश्वस्तरीयः समादरः।

बाल्टिमोर्- केरलमुख्यमन्त्रिणं पिणरायिविजयवर्यम् अमेरिक्कायां बाल्टिमोरस्थः मानवविषाणुपठनसंस्था (Institute of Human Virology) बह्वमन्यत। निपा विषाणुबाधायाः प्रतिरोधार्थं केरलसर्वकारस्य फलप्रदम् उद्यमं पुरस्कृत्यैव एष समादरः। ऐ.एच्.वी. संस्थायाः स्थापकः तथा वैद्यशास्त्रगवेषकः डो. रोबर्ट गेलो मुख्यमन्त्रिणे उपहारं समार्पयत्। एय्ड्स् रोगस्य कारणभूतस्य एच.ऐ.वी. विषाणोः प्रवर्तनम् अनावृते शास्त्रसंघे प्रमुखो भवति डो. गेलो। स्वास्थ्यमन्त्री के.के. शैलजावर्यापि कार्यक्रमे भागमभजत।

     स्वास्थ्यरङगे केरलेन अन्ताराष्ट्रतले लभ्यमानः उन्नता बहुमतिरेवेयम्। १९९६ तमे वर्षे स्थापिता संस्था इदं प्रथमतया कंचन सामाजिकं बहुमनुते। निपा प्रतिरोधार्थं केरलसर्वकारेण स्वीकृतम् बहुमुखम् उद्यमं विशकलय्य एव ऐ.एच्.वी. संस्था मुख्यमन्त्रिणम् आमन्त्रयितुं निरणयत्। विश्वप्रशस्तानां शास्त्रज्ञानां प्रवर्तनकेन्द्रं भवति मानव विषाणुपठनसंस्था।

Leave a Reply

Your email address will not be published. Required fields are marked *