कोेशे अयुतमितैः संस्कृतग्रन्थैः साकम् एकः शिक्षकः।

कोटकरा- एषः कोटकरा काविल्परम्पिल् काञ्जिरप्परम्पु मठत्तिल् शङ्करनारायणन् कर्ता इति संस्कृतशिक्षकः। तृप्पूणित्तुरा सर्वकारीय संस्कृतोच्चतरविद्यालये शिक्षकः तथा प्रांशुपालस्य धुरां च वहति। वाचनपक्षाचरणस्य भागत्वेन कोटकरा ग्रामपञ्चायत् ग्रन्थालये अयुतमितैः संस्कृतग्रन्थैः साकं स प्राविशत्।

     १९४८ तमे वर्षे कोल्कत्ता बाट्टिष् मिषन् संस्कृतपण्डितैः कारयितः प्राचीनसंस्कृतबैबिल् ग्रन्थादयः अत्यपूर्वग्रन्थाः स्वकीये युतककोशे अङ्कीयरूपेण वहति अयं महानुभावः। सङ्गणकस्य बाह्ययन्त्रांशे समाहृताः भवन्त्येते ग्रन्थाः। मलयाल-आङ्गलप्रभृतिषु भाषासु रचिताः शताधिकाः ग्रन्थाः आनुकालिक्यः कलाग्रन्थाः यात्राविवरणानि तथा क्षेत्रकलानां चलनचित्राणि गानानि चस्मिन्नपूर्वे सञ्चये वर्तन्ते। एते ग्रन्थाः अयम् अङ्कीय रूपेण प्रतिकृतिं स्वीकृत्य ग्रन्थशालायै अदात्। अधुनायं भक्तिकाव्येषु अद्वैतस्य स्थानम् इति विषये अनुसन्धानं कुर्वन्नस्ति।

     संस्कृते मलयाले च बह्यः कविताः अनेन रचिताः। कोटकरा पूनिलार् काविलम्मा स्तोत्रस्य कर्तापि अयमेव। काव्यरचनायाः ऋते अक्षरश्लोके/पि तत्परो/यं पुराण कृतिषु आधुनिककृतिषु च प्रवीणः भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *