भारतस्य अभिमाननिदानम्, विश्वं योगदिवसमाचरितम्।

नवदिल्ली- चतुर्थम् अन्ताराष्ट्रयोगदिनम् आविश्वम् आचरितम्। विविधेषु राष्ट्रेषु योगप्रशिक्षणकक्ष्याः विचारसभाः शिबिराणि च प्रचलितानि। लक्षाधिकाः जनाः एषु कार्यक्रमेषु भागमभजन्त।
सौदी राष्ट्रे भारतस्थानपतेः अहम्मद् जावेदस्य आमुखभाषणेन सह योगदिनकार्यक्रमाः आरेभिरे। न केवलम् आरोग्यसंरक्षणं किन्तु एकता शान्तिश्च योगप्रशिक्षणेन साध्ये भवतः इति स्थानपतिरवदत्। सामान्यवेदिकायां योगचर्यावतारणाय सौविध्यं प्रदत्तस्य सौदीप्रशासनस्य कृते स कृतज्ञतां व्याजहार।
भारते उत्तराखण्ड् राजधान्यां डराडूणे विपिनानुसन्धानसंस्थाने प्रचलिते योगाभ्यासे प्रधानमन्त्री नरेन्द्रमोदीवर्यः नेतृत्वमदात्। उत्तराखण्ड् मुख्यमन्त्री त्रिवेन्द्रसिंह् रावत्, केन्द्रमन्त्री श्रीपाद नायक् च सन्निहितावास्ताम्। २०१४ तमे वर्षे एव जूण् २१ अन्ताराष्ट्र योगदिनत्वेन ऐक्यराष्ट्रसभया अङ्गीकृतम्। प्रधानमन्त्रिणः मोदीवर्यस्य प्रेरणयैव एष अङ्गीकारः लब्धः।

५००० वर्षेभ्यः पूर्वं भारते एव योगदर्शनम् उपस्थापितम्। आरोग्यसंरक्षणेन सह एकता अखण्डता सौहार्दं च प्रबलयितुं योगाभ्यासः प्रभवतीति प्रथानमन्त्री अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *