राष्ट्रिय-चलचित्रपुरस्कारान् अतिवेगपत्रगमनद्वारा प्रापयिष्यति।

नवदिल्ली- राष्ट्रिय-चलचित्र-पुरस्कारवितरणाधिवेशनं बहिष्कृतानां कृते तान् पुरस्कारान् अतिवेगपत्रगमनद्वारा प्रापयिष्यति इति चलच्चित्रोत्सवनिदेशालयः असूचयत्। पतकं प्रशस्तिपत्रं धनादेशं च एवं रूपेण प्रेषणं करिष्यति। गतवर्षे/पि आमयेन अन्येन वा कारणेन अनुपस्थितानां कृते एवं विधमेव पुरस्काराः प्रेषिताः इति अधिकारिणः वदन्ति।

      पुरस्काराधिवेशनस्य आमन्त्रणपत्रे राष्ट्रपतिः पुरस्कारान् प्रदास्यति इत्यासीत् सूचना। अन्तिमे यामे परिवर्तनं नाङ्गीकरिष्यन्ति इति अधिवेशनस्य बहिष्कर्तृणाम् अभिप्रायः। परन्तु मार्च् मासे एव राष्ट्रपतेः समयक्रमः मन्त्रालयं प्रति प्रेषितः आसीत्। पुरस्कारवितरण-सम्बन्धीनि क्रमीकरणानि मन्त्रालय एव अकरोत् इति राष्ट्रपतिभवनस्य सूचना। राष्ट्रपतेः पुरस्कारं स्वीकर्तुं चितेषु एकादशसु केरलात् निदेशकः जयराजः गायकः के.जे. येशुदासश्च आस्ताम्। द्वावपि पुरस्कारं स्वीकृतवन्तौ।

Leave a Reply

Your email address will not be published. Required fields are marked *