तोमाविशुद्धः केरलान् नागच्छत्, सभाप्रस्तावं निरस्य इतिहासज्ञः एं.जी.एस्. नारायणन्।

कोषिक्कोट्- विशुद्धतोमा केरलमागत्य अत्रत्यान् ब्राह्मणान् धर्मपरिवर्तनं कृतवान् इति क्रैस्तवसभायाः प्रस्तावः अबद्धजटिल एवेति विख्यातः इतिहासज्ञः एं.जी.एस्. नारायणन् वर्यः अवदत्। विशुद्धतोमायाः आगमनकाल इति तैः सूचिते काले केरलेषु जनवासोƒपि नासीत्, पुनः कथं ब्राह्मणाः अत्र अभवदिति स अपृच्छत्।

तोमाविशुद्धस्य आगमनसूचकं निदानमस्तीति सीरो मलबार् सभायाः प्रस्तावः अप्रामाणिक एवेति सः न्यगादीत्। पूर्वं पोल् तेलक्काट् इति पुरोहितः एतादृशमभिप्रायं सूचितवानासीत्। तं विरुद्ध्यैव सभा तदर्थं निदानमस्तीति अभिप्रैति स्म। अयमेवाभिप्रायः अधुना इतिहासकारेण निरस्यते।

राजनैतिकदलानि धार्मिकदलानि च असकृत् इतिहासस्य दुर्व्याख्यानं कुर्वन्ति। एतेन प्रभाविताः एव ईदृशमभिप्रायं कुर्वन्ति। क्रिस्तोः पश्चात् ५२ तमे वर्षे केरलदेशः समन्तात् अरण्यसदृशमासीत्। तत्र विशुद्धतोमा आगत्य किं कर्तुं शक्यते स्म इति स अपृच्छत्। मौर्यशासनस्य अन्तिमे चरणे एव अत्र जनवासमासीत्। अतः तोमाविशुद्धस्य केरलसन्दर्शनं क्रैस्तवसभया कल्पितमेव इत्यपि स न्यगादीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *