अङ्कीय जीवनशैल्याः सार्वत्रिकीकरणमेव लक्ष्यम् – मुख्यमन्त्री।

कोच्ची- अङ्कीय-जीवनशैलीं प्रावर्तिकं कर्तुं तथा सूचनातन्त्रज्ञानरंगे केरलस्य साध्यतां परमावधि प्रयोजनं कर्तुं च सर्वकारः यतते इति मुख्यमन्त्री पिणरायि विजयः अवदत्। कोच्चीनगरे सम्पद्यमानां भाविनि गोलीय-सूचनातन्त्रज्ञान-उच्चकोटिम् (Future Globel IT Summit)उद्घाटयन्नासीत्  सः।

     विज्ञानमेव केरलस्य भविष्यः । बृहत् परिवर्तनमेव केरले सञ्जायते। अङ्कीयरङ्कस्य परिवर्तनानुसृतं यूनां वैदग्द्यमपि परिवर्तनीयं भवति। विश्व-गुणवत्तानुसृतं पश्चात्तलसौविध्यम् अत्रापि लभेत। ऐ.टी. पार्क् मध्ये/पि पश्चात्तलविकासः प्रचलन्नस्ति।

     अन्तर्जालः प्रत्येकं पौरस्य अधिकारत्वेन प्रख्यापितः। गोलीय-सूचना-तन्त्रज्ञानस्य केन्द्रत्वेन केरलस्य परिवर्तनम् अावश्यकम् इत्येव अस्य मेलनस्य लक्ष्यम् इत्यपि स अवादीत्। एं केरला पब्लिक् वैफै मोबैल् आप् वेदिकायां तेन अनावृतम्।

Leave a Reply

Your email address will not be published. Required fields are marked *