वातावरणव्यतियानं प्रतिरोद्धुमुपायाः वेदेषु सन्ति। – प्रधानमन्त्री।

नवदिल्ली-  वातावरणव्यतियानं प्रति आयोधनं कर्तुं मार्गः वेदेष्वस्तीति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। अन्ताराष्ट्र सौरोर्जसख्यस्य स्थापकाधिवेशने भाषमाण आसीत् प्रधानमन्त्री। राष्ट्रपतिभवने सम्पन्ने अधिवेशने फ्रान्स् प्रधानमन्त्री इम्मानुवल् मार्षिण् वर्यः अपि वेदिकाय़ाम् उपस्थितः आसीत्।

     वेदाः सूर्यं लोकस्यात्मरूपेण पश्यन्ति। सूर्य एव जीवान् परिपालयति।वातावरणव्यतियानस्य दूष्याणि अनुभूयमाने अस्मिन् साहचर्ये परिहारत्वेन वेदनिर्देशाः परिगणनीयाः इति प्रधानमन्त्री सूचितवान्। सौरोर्जोपभोगवर्धनाय पद्धतयः आसूत्रणीयाः। तदर्थं सूचनासाङ्केतिकविद्या उपयोक्तव्या। ततः नूतनः उपगमः लभेत इत्यपि प्रधान मन्त्री अब्रवीत्। ऐक्यपाष्ट्रसभा मुख्यसचिवः अन्टोणियो गुट्टेरस्, वेनिस्वला राष्ट्रपतिः निकोलस् मदूरा, विदेशकार्य मन्त्री सुषमा स्वराजः प्रभृतयः भागमभजन्। अन्ताराष्ट्र- सौरोर्ज-सख्यस्य(ISA) प्रथमसम्मेलने ५० राष्ट्रेभ्यः प्रतिनिधयः समागताः आसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *