केरलेषु एस्.एस्.एल्.सी. परीक्षा श्वः आरभ्यते।

तिरुवनन्तपुरम्- राज्ये छात्राणां प्रथमा सामान्यपरीक्षा -एस्.एस्.एल्.सी.परीक्षा- श्वः आरभ्यते। परीक्षालयप्रवेशपत्राणि छात्रेषु वितरितानि। विनाप्रतिबन्धं परीक्षासञ्चालनाय सर्वाः व्यवस्थाः समायोजिताः। सततमूल्यनिर्णये प्राप्ताः अङ्काः प्रवेशपत्रे सूचिताः वर्तन्ते। अस्मिन् वर्षे आहत्य ४४१०९७ छात्राः परीक्षार्थं पञ्जीकृताः। गतवर्षापेक्षया १४८११ छात्राणां न्यूनता अस्ति। तथापि परीक्षायाः निर्दोषसञ्चालनार्थं गतवर्षापेक्षया अधिकाः व्यवस्थाः समायोजिताः।

     आहत्य २९३५ परीक्षाकेन्द्राणि सज्जीकृतानि। सर्वकारीणविद्यालयीयानि ११६० केन्द्राणि, धनप्रदत्तविद्यालयीयानि १४३३ केन्द्राणि विना सर्वकारधनेन प्रवर्तमानविद्यालयीयानि ४५३ केन्द्राणि च एषु अन्तर्भवन्ति। एतदतिरिच्य लक्षद्वीप-अरबसमुद्रान्तरराष्ट्रस्थानि परीक्षाकेन्द्राणि अपि विद्यन्ते।

Leave a Reply

Your email address will not be published. Required fields are marked *