नार्यो राष्ट्रस्य सम्पदः – 03-03-2018

 

नूतनी समस्या-

“नार्यो राष्ट्रस्य सम्पदः”

ഒന്നാംസ്ഥാനം

वनस्य सम्पदो वृक्षाः
गावश्च गृहसम्पदः।
सुपुत्राः परिवारस्य
नार्यो राष्ट्रस्य सम्पदः।।

पुरुषोत्तमः वेल्लञ्चिरा

“അഭിനന്ദനങ്ങള്‍”

11 Responses to नार्यो राष्ट्रस्य सम्पदः – 03-03-2018

  1. Sr. Amrutha says:

    किं वा करोति यूनाः
    राष्ट्रे सर्वत्र वनिताः।
    मा विस्मर इदं वाक्यं
    नार्यो राष्ट्रस्य सम्पदः।।

  2. Pradeepkumar says:

    कया संरक्ष्यते वंशः?
    मनुजाः कस्य सम्पदः?
    वद किं लोभिनां प्राणाः?
    नार्यो राष्ट्रस्य सम्पदः।।

  3. Anitha K Thattil says:

    महत्यः सम्पदो गावः
    कृषिकर्मणि सर्वदा।
    भारतीयस्य सङ्कल्पे
    नार्यो राष्ट्रस्य सम्पदः।।

  4. V. Vijayan Pattambi says:

    तेरेसा पूजनीयासीत्
    झान्सी राणी तु विश्रुताः।
    मैवं मा विस्तरः कार्यो
    नार्यो राष्ट्रस्य सम्पदः।।

  5. पुरुषोत्तमः वेल्लञ्चिरा says:

    ഒന്നാംസ്ഥാനം

    वनस्य सम्पदो वृक्षाः
    गावश्च गृहसम्पदः।
    सुपुत्राः परिवारस्य
    नार्यो राष्ट्रस्य सम्पदः।।

  6. वत्सलादेवी। says:

    अबलाश्चबलाश्चेति
    नार्यस्तु बहुधा स्मृताः।
    किं मृषा भाषणैः तास्तु
    नार्यो राष्ट्रस्य सम्पदः।।

  7. सुकुमारः says:

    രണ്ടാംസ്ഥാനം

    गोपानामिव गावश्च
    जलानां मधुरस्तथा।
    सौगन्ध इव पुष्पाणां
    नार्यो राष्ट्रस्य सम्पदः।।

  8. सुकुमारः says:

    विना नारीं कुतो राष्ट्रं
    कुतो नारी नरं विना।
    तथापि ताश्च सम्पूज्याः
    नार्यो राष्ट्रस्य सम्पदः।।

  9. Dr. P. Narayanan says:

    മൂന്നാംസ്ഥാനം

    कस्याः कुलप्रदीपत्वं?
    सेना कस्यावने रता?
    न मादयन्ति का धीरं
    “नार्यो राष्ट्रस्य सम्पदः”॥

    ध्रियते हि कया गर्भो
    नाम कस्यास्ति भारतम्।
    विपदः का विलोमे स्युर्
    “नार्यो राष्ट्रस्य सम्पदः” ॥

    • Dr. P. Narayanan says:

      “नार्यो राष्ट्रस्य सम्पदः” इति सम्पादितोयमधुना साधुतां भजते।

Leave a Reply

Your email address will not be published. Required fields are marked *