केरलस्य प्रगत्यां चित्तिरतिरूनाल् महाराजस्य निस्तुलं योगदानम्। – उपराष्ट्रपतिः।

तिरुवनन्तपुरम् – केरलेन आर्जितायाः प्रगतेः पश्चात् श्रीचित्तिरतिरुनाल् महाराजस्य दीर्घवीक्षणं व्यक्तं वर्तते इति उपराष्ट्रपतिः वेङ्कय्या नाय्टू वर्यः अवदत्। सामाजिकनीतिः समत्वं शिक्षा  इत्यादीनां प्रभूतं प्राधान्यं महाराजेन कल्पितम् इति च स उक्तवान्। अनन्तपुर्यां कनकक्कुन्न् प्रासादे चतुर्विंशत्तमं चित्तिरतिरुनाल् अनुस्मरणप्रभाषणं विधास्यन् भाषमाण आसीत् सः।

     १९३६ तमे वर्षे मन्दिरप्रदेशविलम्बरेण विप्लवकरस्य सामाजिकपरिवर्तनस्यैव चित्तिरतिरुनाल् पन्थानमुदघाटयत्। दलिदानां मन्दिरप्रवेशाय अनेन दत्ता अनुमतिः स्वतन्त्रतान्दोलनस्य प्रचोदिका अभवत्। पञ्चवयसः एकादशवयःपर्यन्तेभ्यो बालकेभ्यो अवश्यशिक्षादानार्थं निर्णयः एव अद्यत्वे केरलीय शिक्षाक्षेत्रस्य महत्वनिदानम् इति च उपराष्ट्रपतिः अन्वस्मरत्।

Leave a Reply

Your email address will not be published. Required fields are marked *