संस्कृताध्यापकफेटरेषन् सङ्घस्य वार्षिकाधिवेशनं कासरगोड् नगरे।

कासरगोड् – केरल संस्कृताध्यापकफेटरेषन् इति सङ्घस्य ४० तमं वार्षिकाधिवेशनं कासरगोड् नगरे २०१८ फिब्रुवरी २२,२३,२४ दिनाङ्केषु सम्पत्स्यते। २२ तमे दिनाङ्के दीपशिखाप्रयाणेन साकं समारोहः आरभ्यते। विख्यातः संस्कृतपण्डितः तथा महाजन संस्कृत कलालयस्य स्थापकश्चासीत् नीर्चाल् खडिके श्यां भट् वर्यः। तेषां स्मृतिमण्डपात् जयदेवखडिकेवर्यः दीपशिखां नारायणहेग्डेवर्याय प्रयच्छति। अधिवेशननगर्यां सा दीपशिखा संघाटकसमितेः अध्यक्षः ऐ.वी.भट् वर्यः स्वीकरिष्यति।

     अधिवेशनस्य उद्घाटनं उदुमा मण्डलस्य नियमसभासदस्यः के.कुञ्ञिरामन् वर्यः विधास्यति। अस्मिन् समारोहे कासरगोड् नगरसभाध्यक्षा बीफात्तिमा इब्राहिं वर्या अध्यक्षा भविता। ततः स्मरणिकाप्रकाशनं प्रतिनिधिसम्मेलनं च भविता। कार्यक्रमे अस्मिन् संस्कृताध्यापकसङ्घस्य नेतारः भूतपूर्वनेतारश्च भागं भजिष्यन्ति।

     २३ दिनाङ्के विद्याभ्याससम्मेलनं केरलमन्त्री ई. चन्द्रशेखरन् वर्यः उद्घाटयिष्यति। कासरगोड् सदस्यः एन्. ए. नेल्लिक्कुन्न् अध्यक्षः भविता।  संस्कृतसम्मेलनं कालटी विश्वविद्यालयस्य उपकुलपतिः डो.धर्मराज् अटाट् वर्यः उद्घाटनं करिष्यति।चेन्नै संस्कृतकलालयस्य प्रांशुपालः टी.पी.आर्.नम्पूतिरिः अध्यक्षो भविता। प्रतिभापुरस्कारार्थं चिताः श्रीमन्तः हरिप्रसाद् कटम्पूर्- संघगानरचना, जोस् नववाणी- संस्कृतजालपुटः तथा मोबैल् आप्, पी.के. अशोकन् – संस्कृत त्रिमानचलच्चित्रं, हरिकुमार् अय्यम्पुषा- सम्प्रतिवार्ताः इति जालपत्रिका इत्येते वेदिकायाम् आदरिष्यन्ते। अध्यापकानां छात्राणां च सास्कृतिककार्यक्रमानपि आयोजयिष्यन्ते।

KSTF special page

 

Leave a Reply

Your email address will not be published. Required fields are marked *