पूर्णवेदपुरीस्थे संस्कृतकलालये शास्त्रयानः।

तृप्पूणित्तुऱा अस्य मासस्य षोडशदिनाङ्के तथा सप्तदशदिनाङ्के च पूर्णवेदपुरीस्थे संस्कृतकलालये शास्त्रयाननामिका प्रदर्शनी प्रचाल्यते। संस्कृत साहित्य – शास्त्र – तत्वचिन्तादिषु विज्ञानानां सुव्यक्तम्ख्यापयन्ती स्यादैषा। साहित्य , आयुर्वेद , न्याय, व्याकरण, ज्योतिःशास्त्र, वेदान्त विभागाणां तथा वास्तुशास्त्रसङ्गीतादीनां च सोदाहरण प्रदर्शनमत्र समायोजितम्। प्रदर्शनेन सह दिनद्वयं यावत् विविधानां कलारूपाणां आविष्कारोपि अत्र समायोजितः। मरुत्तुकळी तत्र प्रामुख्येन प्रस्तावमर्हति। अस्योद्धाटनं तु श्रीमता कलालयविद्याभ्यासमुख्यकार्यकर्त्र्या श्रीमत्या एं एस् जया महाभागया क्रियते । केरलकलामण्डलस्य प्राक्तनकुलपतिः डो. के जी पौलोस् आचार्याः मुख्यं प्रभाषणं निर्वहति।

Sasthrayaan – notice

Leave a Reply

Your email address will not be published. Required fields are marked *