दिवङ्गतः।

माळा – प्रसिद्धः संस्कृतपण्डितः नैकेषां ग्रन्थानां प्रणेता च ऐराणिक्कुलम् ऒरवङ्करा नारायणन् नम्पूतिरिः दिवङ्गतः। प्रसिद्धस्य ओरवङ्करा राजा नीलकण्ठविप्रस्य पौत्रो∫यं कोकिलसन्देशः, किरातार्जुनीयं, शिशुपालवधम् इत्यादयो अनेन मलयालभाषायामनूदिताः। पारिजातहरणमिति काव्यस्य रचना चानेन कृता। गुरुमुखादेव असौ संस्कृतसाहित्य-शास्त्राणि  अधीतवान्। अस्य आत्मनः शान्त्यै नववाणीसंघस्य प्रार्थनाः समर्पयामः।

Leave a Reply

Your email address will not be published. Required fields are marked *