विद्यालयीयकलोत्सवे संस्कृतोत्सववेदिकायां विचारसभा सम्पन्ना।

तृशिवपुरम् – राज्यस्तरीय विद्यालयकलोत्सवस्य भागत्वेन समायोजिते संस्कृतोत्सवे अद्य विचारसभा आयोजिता। संस्कृतस्य समकालिकप्राधान्यम् इति विषयमधिकृत्य कालटि संस्कृतविश्वविद्यालयस्य प्राध्यापकः श्री निषाद् महाशयः प्रबन्धं प्रास्तौत्। कालटि संस्कृतविश्वविद्यालयस्य उपकुलपतिः धर्मराज् अटाट् वर्यः, श्री. सन्तोष् कुमारः डो. सुनिल्कुमार् कोरोत् प्रभृतयः सन्निहिताः आसन्।

     विचारसभया  साकं पण्डित समादरणमपि प्राचलत्। पण्डितौ डो. वि. एस् विजयन्, डो. औसेफ् च समादृतौ। अपि च नववाणी मोबैल् आप्लिकेषन् समर्पणमपि अभवत्। त्रयाणामपि सममेव उद्घाटनं शिक्षासचिवः प्रेफ. सी. रवीन्द्रनाथवर्यः निरवहत्। कृषिमन्त्री वी. एस् सुनिल् कुमार् वर्यः आध्यक्षमवहत्।डी.पी.एे. के.वी. मोहन्कुमार् वर्यः सर्वेभ्यो स्वागतम् आशंसत्,। संस्कृतस्य विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवी कृतज्ञतां च व्याहरत्।

Live video

Leave a Reply

Your email address will not be published. Required fields are marked *