श्रीनारायणगुरुदेवस्य दर्शनानि जीवने प्रावर्तिकानि कुर्युः – प्रधानमन्त्री।

शिवगिरिः – समाजपरिष्कर्तुः नारायणगुरुदेवस्य दर्शनानि एकैको/पि स्वजीवने प्रवृत्तिपथम् आनीयात् इति प्रधानमन्त्री नरेन्द्रमोदी निरदिशत्। जनानां राष्ट्रस्य च समृद्धिः विकासश्च शिवगिरितीर्थाटनस्य मुख्यं लक्ष्यम् इति सः अवदत्। ८५तमं शिवगिरितीर्थाटनं दृश्यपरिषद् द्वारा उद्घाटनं कुर्वन्नासीत् सः।

     समाजस्य दिशाबोधिका भवतीयं तीर्थयात्रा। आन्तरिकदूष्यतः जनान् परिवर्तयितुम् एतादृशानि पारम्पर्याणि  अत्यन्तापेक्षितानि। राष्ट्रे विविधराज्यस्थानां जनानाम् ऐकमत्यमेवात्र दरीदृश्यते इत्यपि स न्यगादीत्। गतशतकस्थानां नवोत्थाननेतृणां मध्ये श्रीनारायणगुरुदेवः अद्वितीयः। विद्यया प्रबुद्धाः भवेयुः, सङ्घटनेन शक्ताः भवेयुः, उद्योगेन अभिवृद्धाः भवेयुः इति गुरुदेवः मन्त्रयामास।

     समाजोद्धारणाय दलितानां पीडितानां प्रबलीकरणाय च गुरुदेवः अयतत। शिक्षया एव एते प्रबुद्धाः भविष्यन्ति इति स विश्वसिति स्म इत्यपि प्रधानमन्त्री सूचयामास।

     स एवमपि अवदत् यद् नारायणगुरुदेवस्य अनुग्रहेण नववर्षारम्भः परितोषकर एव। शिवगिरिमठं यदा यदा समायात तदा तदा तत्रत्या अनुभूतिः मयि आह्लादजनिका आसीत्। अधुना तीर्थयात्रायाः उद्घाटनं कर्तुमवकाशमलभत। अनेन नितरां सन्तुष्टश्च इति। शिवगिरिमठाधिकारिभ्यः प्रधानमन्त्री कृतज्ञतामपि व्याहरत्।

Leave a Reply

Your email address will not be published. Required fields are marked *