गणतन्त्रदिवस खलूरिकायां केरलस्यापि प्रातिनिध्यम्।

नवदिल्ली – वर्षचतुष्टयानन्तरं गणतन्त्रदिवसीय खलूरिकायां केरलस्यापि नियोगः। अस्मिन् वर्षे केरलीया केट्टुकाय्चा नामिका अनुष्ठानकला एव अवतार्यते। असम्, छत्तीस्गड्, गुजरात्, हिमाचल् प्रदेश्, जम्मू-काश्मीर्, कर्णाटका, मध्यप्रदेश्, महाराष्ट्रा, मणिप्पूर्, पञ्चाब्, त्रिपुरा, उत्तराखण्ड् एतानि राज्यानि लक्षद्वीप् च अस्मिन् वर्षे केरलेन समं भागं भजन्ते।

२०१३ तमे वर्षे गणतन्त्रदिवसखलूरिकायां निश्चलदृश्यविभागे केरलेन सुवर्णपतकं प्राप्तमासीत्। तदनन्तरम् अस्मिन् वर्षे एव अस्मिन् कार्यक्रमे केरलम् अनुमतम् भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *