५८ तमः केरलविद्यालयीयकलेत्सवः गोपुरद्वारमागतः।

तृशूर् – ५८ तमः केरलविद्यालयीयकलोत्सवः तृशूर् नगरे २०१८ जनुवरी ६तः १०पर्यन्तं सम्पत्स्यते। कलोत्सवार्थं सर्वाः सज्जताः समाप्तप्रायाः। प्रसिद्धं तृशिवपुरशिवमन्दिरं परितः २४ वेदिकाः सज्जीकृताः।कलोत्सवे प्रतियोगितानां समयसारिणी घोषिता। हरितनियमानुसारं कलोत्सवः संघटयति। वेदिकानां नामान्यपि प्रकृत्यनुसारं वृक्षलतादीनां कैरलीनामयोजनेन आकर्षकं करोति।

वेदिका १. नीर्मातलम्, २. निशागन्धी, ३. नीलक्कुरिञ्ञी, ४. तेन्वरिक्का, ५. चेमपरत्ती, ६. नीलोत्पलम्, ७. नीर्मरुत्, ८. नन्द्यार्वट्टम्, ९. कुटमुल्ला, १०. मञ्चाटी, ११. कणिक्कोन्ना, १२. चेम्पकम्, १३. देवतारु, १४. पविषमल्ली, १५. नित्यकल्याणी, १६. राजमल्ली, १७. सूर्यकान्ती, १८. नीलक्कटम्प्, १९. शङ्खपुष्पम्, २० नीलत्तामरा, २१. अशोकम्, २२. काशित्तुम्पा, २३. चन्दनम्, २४. केरः  इति वेदिकानां क्रमशः नामानि।

संस्कृतोत्सवकार्यक्रमाणां वेदिका यथा –

४. तेन्वरिक्का – संस्कृत नाटकम्, ६. नीलोत्पलम्- रचनास्पर्धाः, प्रश्नोत्तरम्, गानालापः, अष्टपदी च। ७. नीर्मरुत् – पाठकम्, अक्षरश्लोकः, पद्योच्चारणम्, प्रभाषणम्, चम्पूप्रभाषणम् च। ११. कणिक्कोन्ना – संस्कृतसङ्गोष्ठी, वन्देमातरम्, सङ्घगानम् च। १९ शङ्खपुष्पम् – कूटियाट्टम्।

  • पलास्तिकवस्तूनि कलोत्सवनगर्यां निरुद्धानि सन्ति।

One Response to ५८ तमः केरलविद्यालयीयकलेत्सवः गोपुरद्वारमागतः।

  1. ജോസ് says:

    👍👍👍

Leave a Reply

Your email address will not be published. Required fields are marked *