ओखी चक्रवातः शक्तिं प्राप्य लक्षद्वीपं प्रति, राज्ये २४ होराः अवधाननिर्देशः।

अनन्तपुरी-  केरलेषु कोलाहलं विधाय ओखी नामकः चक्रवातः अतिशक्तो भूत्वा लक्षद्वीपं प्रति याति। अद्य प्रातः वातः लक्षद्वीपं प्राप्नोति इत्यनुमन्यते। द्वीपे ४८ होराः जाग्रतानिर्देशो दत्तः। केरलस्य दक्षिणमणडलेषु तीरदेशे २४ होराः जाग्रत्वनिर्देशः अस्ति। धीवराः समुद्रं न गच्छेयुः इति निर्दिष्टाः। कन्याकुमार्यां केरलेषु च इतःपर्यन्तम् अष्टौ मरणानि आवेदितानि।

     ओखी चक्रवातस्य वेगः प्रतिहोरं १३० कि.मी. पर्यन्तं भवेत् इत्यवधाननिर्देशः। आगामिषु होरासु शक्ता वृष्टिः सागरक्षोभश्च भविष्यतीति सूचना अस्ति।

   वंगसमुद्रे रूपवत्कृतं तीव्रं न्यूनमर्दं चक्रवातरूपेण परिणमदासीत्। अनन्तपुरीतः मत्स्यबन्धनार्थं गताः १५० नौकाः न प्रत्यायाताः। साहाय्यार्थं नौसेना सन्नह्यति। तीरदेशात् धीवरान् पुनरावासयतीति  मन्त्रिणी जे मेय्सिक्कुट्टियम्मा महाभागा अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *