छात्रेषु कायिकप्रशिक्षणम् अनिवार्यं करोति।

नवदेहली – विद्यालयीयछात्राणां कृते प्रतिदिनम् एकहोरापर्यन्तं कायिकप्रशिक्षणम् अनिवार्यं करोति। एतदर्थं सर्वकारप्रतिनिधयः कार्यकर्तारश्चान्तर्भूता समितिः केन्द्र-मानवसंसाधनमन्त्रालयाय आवेदनमदात्। आवेदनम् अङ्गीक्रियते चेत् आराष्ट्रं विद्यालयेषु कायिकप्रशिक्षणम् अनिवार्यं करिष्यति।

मानवसंसाधनमन्त्रालयेन आयोजितायां कार्यशालायामेव कायिकशिक्षा, मूल्याधिष्ठिता शिक्षा इत्यादीः अधिकृत्य संस्तुतिपत्रं समर्पितम्। सामान्यजनाः राज्य-केन्द्रसर्वकराणां प्रतिनिधयश्चान्तर्भूतायां कर्मशालायाम् अङ्कीयशिक्षा, जीवितनैपुण्यशिक्षा, कायिकशिक्षा, परीक्षणपठनानि, मूल्याधिष्ठिता शिक्षा इत्यादीनि चर्चाविषयाणि अभवन्। कायिकप्रशिक्षणं शिक्षायाः विशिष्य विद्यालयपठने   अविभाज्यघटकः भवति इत्यतः तदनिवार्यं कर्तव्यमिति मन्त्रालयस्य वरिष्ठसचिवाः अवोचन्।

Leave a Reply

Your email address will not be published. Required fields are marked *