परिवहणमन्त्री तोमस् चाण्टी त्यागपत्रम् अयच्छत्।

तिरुवनन्तपुरम् –  भूसंसक्षणनियममुल्लङ्घ्य निर्माणप्रवृत्तीः सरोवरातिक्रमणं च कृतवान् इत्यारोपणानन्तरं केरलस्य परिवहणमन्त्री तोमस् चाण्टी वर्यः मन्त्रिमण्डलात् स्वकीयं त्यागपत्रं समर्पितवान्। अद्य प्रातः क्लिफ् हउस् इति मुख्यमन्त्रिणः वसतिं प्राप्य मुख्यमन्त्रिणं पिणरायि विजयं सम्मन्त्र्य एव स त्यागसन्नद्धतामावेदयत्।अनन्तरं एन्.सी.पी. राष्ट्रियनेतृत्वेन सह चर्चां कृत्वा मध्याह्ने त्यागपत्रं मुख्यमन्त्रिणे प्रयच्छति स्म। मुख्यमन्त्री तत् त्यागपत्रं राज्यपालाय प्रैषयच्च।

वाट्टर् वेल्ड् ट्यूरिसं कम्पनी इति निगमस्य निदेशकः अस्ति तोमस् चाण्टी। स निगमः भूसंरक्षणनियमं व्रीहिक्षेत्र-जलाशयनियमं च अलङ्घयत् इत्येवारोपणम्। एतदनुबन्धव्यवहारे ह्यः उच्चन्यायालयः तोमस् चाण्टीं विरुद्ध्य रूक्षं विमर्शनं प्रकटयन्नासीत्। तदनन्तरं मन्त्री स्वपदं त्यक्तुं प्रेरितः अभवन्।

Leave a Reply

Your email address will not be published. Required fields are marked *