निर्भय् प्रक्षेपास्त्रं पुनः परीक्षणाय सज्जं भवति।

नवदेहली – भारतस्य देशीय भौमोपरितलप्रक्षेपास्त्रं निर्भय् नामकं पुनरपि परीक्षणाय सज्जं भवति। भाविनि सप्ताहे अस्य पञ्चमं परीक्षणं भविता। डिफन्स् इन्स्टिट्यूट् आफ् फिसियोळजी आन्ट् अलैड् सयन्स् संस्थया आयोजिते आन्ताराष्ट्राधिवेशने डि.आर्.डि. ओ. मुख्यः क्रिस्टफर् महाशयः एव वार्तामिमां सूचितवान्। २०१६ डिसेम्बर् मासे ओडीषा तीरे कृतं परीक्षणं विफलमासीत्। विक्षेपणात् परम् एकादशे निमेषे प्रक्षेपास्त्रस्य नियन्त्रणं विनष्टं जातम्।

७५० तः १००० कि.मी. पर्यन्तं दूरपरिधिभूतं निर्भय् प्रक्षेपास्त्रं स्थलात् युद्धविमानात् युद्धपोतात् अन्तर्वाहिन्याश्च विक्षेप्तुं शक्यम्। रोक्कट् सदृशं लम्बरूपेण उत्तीर्य विमानसदृशं तिरश्चीनं डयतुमपि इदं प्रभवति।

Leave a Reply

Your email address will not be published. Required fields are marked *