मुद्रानिरोधः- सज्जीकरणाय समयः देयः आसीत्।-अरुन्धती भट्टाचार्या।

नवदेहली- मुद्रानिरेधार्थं भारते सज्जीकरणम् आवश्यकमासीत्। तदर्थं समयो/पि देयः आसीदिति भारतीय राज्य वित्तकोशस्य (SBI)भूतपूर्वा मेधावी श्रीमती आरुन्धती भट्टाचार्या अवदत्। आवश्यकः समयः अदास्यत् चेत् प्रवर्तनानि  सफलानि अभविष्यत्। मुद्रां कस्माच्चिद्देशात् इतरत्र नेतुं एस्.बी.एे. संस्थायाः पृथक् नियमाः सन्ति। अकस्मात् मुद्रानिरोधघोषणा वित्तकोशान् प्रतिसन्धिमनयत् इति च सा सूचितवती। मुद्रानिरोधानन्तरं ए.टी.एं. मध्ये नूतनीं मुद्राम् अलभमानाः सामान्यजनाः वित्तकोशान् विरुध्य रूक्षं विमर्शनमपि अकुर्वन्।

गते वर्षे नवम्बर् ८ दिनाङ्के ५००, १००० मूल्यरूप्यकाणां मुद्रां निरोद्धुं प्रधानमन्त्री निर्णयमकरोत्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *