भीकरप्रवर्तनानि विरुद्ध्य टिबट् आत्मीयनेता दलै लामा।

ईम्फाल् – भारतस्य पौराणिकं ज्ञानं विश्वशान्त्यै प्रभवति इति टिबट् देशस्य आत्मीयनेता दलैैलामा वर्यः उक्तवान्। मणिप्पूर् राजधान्याम् इम्फाले त्रिदिवसीय सन्दर्शनार्थम् आगतः आसीत् सः। भीकराणां धर्मः नास्ति। विश्वे इस्लां तीव्रवादः क्रिस्तीयतीव्रवादः च नास्ति। धर्मविश्वासः धर्मप्रचारणं च भिथः भिद्यते। कस्यचन धर्मः यः को/पि भवतु आतङ्कवादस्वीकारेण तस्य धर्मः अप्रसक्तः भवति। विश्वे एकैकस्यापि धर्मस्य पृथक् विश्वासः भवेत्, तेषां विश्वासानां संरक्षणं चानिवार्यम्। परन्तु एकस्मिन् विभागे अन्तर्भूताः इतरविभागान् धर्मपरिवर्तनार्थं प्रेरयन्ति चेत् तत्र धर्मो नास्तीत्यपि लामा वर्यः अवोचत्।

भारतं चीना च महत्तरे द्वे राष्ट्रे भवतः। सीमायां काश्चन समस्याः अपि सन्ति। परन्तु सा स्थितिः गुरुतरामवस्थां न प्राप्स्यति इत्येव विश्वास इति सः असूचयत्।

चरितानुसारं भारतं विभिन्नधर्मसंयुक्तं राष्ट्रं भवति। अहिंसा सिद्धान्तस्य वर्षसहस्रमितं पारम्पर्यम् अत्रास्ति। अत्रत्यं पौराणिकं ज्ञानं विश्वशान्त्यै प्रभवति नूनम्। तदर्थं सर्वेषां प्रवर्तनं भूयात् इति स प्रत्याशां प्राकटयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *