विद्यालयेषु समरः निरुद्धः – उच्चन्यायालयः।

कोच्ची- विद्या निलयेषु समरः सत्यग्रहश्च मा कुरुत इति केरलीयोच्चन्यायालयेन आदेशः दत्तः। एतादृशेषु प्रवर्तनेषु निरतान् छात्रान् कलाशालायाः बहिष्कर्तुं अधिकृतैः श्रद्धा कार्या।

पठनार्थमेव छात्राः विद्यालयं कलालयं च आगछन्ति, न तु राजनैतिकप्रवर्तनाय। पठनं समरश्च युगपद् न प्रवर्तते। राजनैतिकप्रवर्तनाय प्रामुख्यम् इछति चेत् पठनं समाप्य गन्तव्यम् इत्यपि प्राड्विवाकसङ्घः निरगात्। पोन्नानि जनपदस्थे एम्. इ. एस्. कलालये छात्रसमरमनुबन्ध्य समर्पिते आवेदने निर्णयान्तरादेशं वितरयता उच्चन्यायालयेन एषः विमर्शः कृतः। कलाशालायाः अन्तः परिसरे वा समरार्थम् आवारः मार्गरोधश्च न अनुवदनीयः। एतदर्थम् अवश्यं साहाय्यं भवितव्यम् इति न्यायालयः रक्षिदलं निरदिशत्।

Leave a Reply

Your email address will not be published. Required fields are marked *