सरस्वतीसम्मान् प्रभावर्मा वर्याय। द्वादशवर्षानन्तरमेव कैरलीसाहित्यस्य पुरस्कारप्राप्तिः।

नवदिल्ली- विख्यातः कैरलीसाहित्यकारः प्रभावर्मावर्यः अस्मिन् वर्षे सरस्वतीसम्मान् पुरस्काराय अर्हो अभवत्। रौद्रसात्विकम् इति काव्याख्यायिका एव सरस्वतीसम्मानाय परिगणिता। १५ लक्षं रूप्यकाणि, फलकं, प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवन्ति। कैरलीभाषायाः कृते लब्धः अङ्गीकार एव पुरस्कारः इति प्रभावर्मा अवदत्।

श्याममाधवम्, कनल्चिलम्प् रौद्रसात्विकम् इति काव्याख्यायिकाः सौपर्णिका अर्कपूर्णिमा, अविचारितम् इत्यादयः द्वादश कवितासमाहाराश्च प्रभावर्मा महाशयेन प्रकाशिताः सन्ति। माध्यमप्रवर्तकः गानकारश्च भवत्ययम्। चलचित्रगानरचनायै पुरस्कार अपि अनेन प्राप्तः।

Leave a Reply

Your email address will not be published. Required fields are marked *