केरलेषु पाठ्यचर्यायाः समग्रपरिवर्तनेन पाठ्यपुस्तकानि परिष्कृतानि।

पाठ्यचर्या परिष्करणस्य भागत्वेन राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः आभिमुख्ये सज्जीकृतानि पाठ्यपुस्तकानि राज्यस्तरीय पाठ्यचर्यानियन्त्रणसमित्या अङ्गीकृतानि। १,३,५,७,९ वर्गाणां कृते सज्जीकृतेषु १७३ शीर्षकेषु अन्तर्भूतानां पाठ्यपुस्तकानामेव अङ्गीकारः। अनेन केरलेषु पाठ्यचर्या तस्याः अनुबन्धितया पाठ्यपुस्तकानि च समग्रपरिवर्तनाय विधेयानि भविष्यन्ति।

इतः पूर्वं २००७ तमे वर्षे एव पाठ्यतर्याप्रारूपस्य परिवर्तनेन समग्रपाठ्यपद्धति परिष्करणं जातम्। ततः २०१३ तमे वर्षे पाठ्यपुस्तकानि परिष्कृतानि।

गते षोडशवर्षाभ्यन्तरे विज्ञानतले सञ्जातः विकासः शास्त्र-प्रौद्योगिकमण्डले सञ्जातं परिवर्तनं तथा राष्ट्रिय-शिक्षानीतिः २०२० इत्यस्य भूमिका च परिगणितानि।

शिक्षाक्षेत्रे शिक्षकाः छात्राः रक्षितारश्च अभिभूय २६ केन्द्रबिन्दुसङ्घःरूपवत्कृतः। अस्य सङ्घस्य नेतृत्वे एव पाठ्यपद्धति परिष्करणस्य प्रारम्भप्रवर्तनानि समभवन्।

विविधासु शिल्पशालासु पाठ्यपुस्तकानां नवीकरणप्रवर्तनानि समभवन्। एतासु शिल्पशालासु विद्यालयीयाध्यापकाः कलाशालाध्यापकाः वृत्तिविरताः विशेषज्ञाश्च भागभाजः आसन्।

One Response to केरलेषु पाठ्यचर्यायाः समग्रपरिवर्तनेन पाठ्यपुस्तकानि परिष्कृतानि।

  1. Anuj tripathi says:

    मनोहरम्

Leave a Reply

Your email address will not be published. Required fields are marked *