चन्द्रयान्-३ अभियानं सम्पूर्णविजयः। चन्द्रमण्डलस्य दक्षिणध्रुवे चन्द्रयानम् अवातरत्।

बङ्गलूरु- सूर्यास्तमयाय निमेषेषु अवशिष्टेषु भारतस्य चान्द्राभियानं चन्द्रयान्-३ इति पेटकं चन्द्रोपरितलमस्पृशत्। वर्षचतुष्टयात् पूर्वं अन्तिमनिमेषे पराजयमापन्नमासीत् तदानीन्तनम् अभियानम्। स एव स्वप्नः अधुना साक्षादभवत्। भारतम् अभिमानपुरस्सरं चन्द्रोपरितलं प्राविशत्। १४० कोटि परिमितानां भारतीयानामयम् अभिमाननिमेषं भवति।

ऐ-एस्-आर्-ओ संस्थायाः नेतृत्वे प्रवृत्तस्य चान्द्रदौत्यस्य अद्य भारतीयसमयानुसारं ६-०५ वादनम् अभिमानमुहूर्तमभवत्। अस्य विजयाय अहोरात्रं प्रयत्नं कृतेभ्य सर्वेभ्यः अभिनन्दनानि अर्पयामः।

3 Responses to चन्द्रयान्-३ अभियानं सम्पूर्णविजयः। चन्द्रमण्डलस्य दक्षिणध्रुवे चन्द्रयानम् अवातरत्।

  1. Anuj tripathi says:

    जयतु संस्कृतम्

  2. Sunil Kumar Pandey says:

    Sanskrit news is good.

  3. Suraj Prajapati says:

    Boss you are doing super job keet it up

Leave a Reply

Your email address will not be published. Required fields are marked *