चन्द्रयान्-३ विक्षेपणं सुसम्पन्नम्।

श्रीहरिक्कोट्टा- राष्ट्रं प्रतीक्षया प्रतिपाल्यमानस्य चान्द्रपर्यवेक्षणदौत्यस्य चन्द्रयान्- ३ इत्याख्यस्य विक्षेपणं विजयमभवत्। श्रीहरिक्कोट्टायां द्वितीयविक्षेपणस्थलादेव चन्द्रयान्-३ पेटकं संवाह्य एल्-वि-एं -३ एं-४ रोक्कट् उदगच्छत्। ४३-५ मीट्टर् उन्नतिः ४ मीट्टर् मितं विस्तीर्णं च एल्-वि-एं-३ एं-४ रोक्कट् इस्रो संस्थायां बलवत्तमं रोक्कट् भवति।

आगामिनि मासस्य २३ अथवा २४ दिनाङ्के दक्षिणध्रुवसमीपं चन्द्रयान्- ३ पेटकस्य सुरक्षितम् अवतारणं प्रतिपालयन्ति सर्वे। दौत्यस्य विजयेन चन्द्रोपरितले सुरक्षितरूपेण पेटकमवतार्यमाणं चतुर्थं राष्ट्रं भविष्यति भारतम्।

Leave a Reply

Your email address will not be published. Required fields are marked *