केरलीय शिक्षा सङ्गमः समुद्घाटितः।

तिरुवनन्तपुरम्- केरलीय-सार्वजनीन-शिक्षाविभागस्य कृते राज्य -शैक्षिकानुसन्धान-प्रशिक्षणपरिषदा समायोज्यमानः प्रथमः केरलीय-शिक्षा-सङ्गमः(Kerala Education Congress) केरलीय शिक्षाविभागमन्त्रिणा वि शिवन् कुट्टि वर्येण समुद्घाटितः। राज्यसभासदस्यः ए ए रहिं वर्येः आघ्यक्ष्यं व्यतनोत्।

महाराष्ट्र शिक्षा विभागमन्त्री दीपक् वसन्त् केसार्कर्, राजस्थान शिक्षाविभागमन्त्री डा- बुलाकिदास् कल्ल इत्येतौ अतिथरूपेण भागम् अग्रहीताम्। तिरुवनन्तपुरं जिल्ला पञ्चायत् अध्यक्षः डी सुरेष् कुमारः, सार्वजनीन शिक्षा निदेशकः के जीवन् बाबू वर्यः एस्-सि-इ-आर्-टि निदेशकः डा- जयप्रकाश् आर् के वर्यः इत्येते भाषणमकुर्वन्।

विद्यालयीयशिक्षा रङ्गेण सम्बद्धः एतादृशः राष्ट्रीय शिक्ष-सङ्गमः केरलेषु प्रथमतया समायोज्यते। त्रिदिवसीये अस्मिन् समारोहे अनुसन्धानपद्धतिं प्रबन्धांश्च अवतारयितुं शिक्षकाणां गवेषकाणां छात्राणां शिक्षाप्रवर्तकानां च अवसरः अस्ति। प्रशस्तानां शिक्षाकोविदां प्रभाषणान्यपि समायोजितानि सन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *