पादकन्दुकक्रीडाप्रकाण्डं पेले वर्यः कालकबलितः अभूत्।

सावोपोलोः- ब्रसील पादकन्दुकक्रीडायाम् इतिहासं रचितवान् पेलेवर्यः दिवङ्गतः। सावोपोलो स्थले आल्बर्ट् ऐन्स्टिन् चिकित्सालये आसीत् अस्य अन्त्यम्। सः 82 वयस्कः आसीत्। स्वास्थ्यावस्थाां परिगणय्य एकमासावधिकं कालं चिकित्सालये आसीत्। अर्बुधबाधितः स रासायनिकचिकित्सया अपि विमुक्त्यभावात् सान्त्वनपरिचरविभागे चिकित्सायामासीत्। विश्वपादकन्दुकक्रीडायां ब्रसील् राष्ट्रस्य कृते सर्वाधिकं लक्ष्यकन्दुकम् अनेन सम्पादित्म्। 1958, 1962, 1970 वर्षेषु ब्रसीलस्य विश्वचषकविजये नायकत्वं पेले वर्यस्य आसीत्। आहत्य 92 मत्सरेषु 77 लक्ष्यकन्दुकानि अनेन सम्पादितानि।
1940ओक्टेबर् 13 तमे दिने सावोपोलो स्थले एकस्मिन् निर्धनपरिवारे आसीत् एड्सण् अरान्टेस् दो नासिमेन्टो इति यथार्थनामकस्य पेलेवर्यस्य जन्म। पादकन्दुकक्रीडातः विरतः अयं पादकन्दुकस्थानपतिरूपेण प्रवर्तितवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *