मिखायेल् गोर्बच्चेव् वर्यः कालकबलितो अभवत्।

मोस्को- सोवियट् संघस्य अन्तिमाध्यक्षः मिखायेल् गोर्बच्चेव् वर्यः अन्तरितः। रूस् वार्ताहरसंघैरेव एषा सूचना दत्ता।

तस्यान्त्यमधिकृत्य अधिका सूचना न लब्धा तथापि स मोस्को नगरे कस्मिंश्चित् चिकित्सालये चिकित्सायामासीत् इति तस्य कार्यालयेन सूचितमासीत्।

अमेरिकया सह संजातं शीतसमरं रक्तरहितरूपेण समापयितुं स निर्णायकं योगदानम् अकरोत्। परन्तु १९९१ तमे वर्षे सोवियट् संघस्य शिथिलीकरणं प्रतिरोद्धुं स न सन्नद्धः आसीत्।

द्वितीय-विश्वमहायुद्धानन्तरं यूरोपीये प्रतिसन्धिनिवारण विषये तथा जर्मन्याः एकीकरणविषये च स नीतियुक्तं कार्यं व्यतनोत्।

Leave a Reply

Your email address will not be published. Required fields are marked *