वाचनवसन्तः- पाठशालाग्रन्थालयाय पुस्तकवितरणं सम्पूर्णमभवत्।

तिरुवनन्तपुरम्- २०१८-१९ अध्ययनवर्षादारभ्य क्रियान्विता सर्वकारस्य स्वप्नपरियोजना भवति वाचनवसन्तनामिका ग्रन्थालयनवीकरणपद्धतिः। मुख्यमन्त्रिणः शिक्षामन्त्रिणश्च विशेषतात्पर्यानुसारम् अस्मिन् वर्षेपि सर्वकारस्य शतदिनकर्मयोजनायां परिगणय्य १० कोटिरूप्यकाणां व्ययेन पाठशालाग्रन्थालयपरियोजनां प्रवृत्तिपथमानेतुं निर्णयो जातः।

पूर्वं प्रथमवर्षे सर्वकारीय उच्चविद्यालयानां माध्यमिकविद्यालयानां तथा प्रलये ग्रन्थनष्टमापन्नानां निजीयविद्यालयानां च कृते ६ कोटि रूप्यकाणां व्ययेन पुस्तकानि अदात्। द्वितीयवर्षे धनादत्तनिजीय उच्चविद्यालयानां कृते ४ कोटि रूप्यकाणां व्ययेन पुस्तकानि ददौ।

गते वर्षद्वये अनया परियोजनया पुस्तकानि अलभमानानां विद्यालयानां कृते एव अस्मिन् वर्षे पुस्तकानि वितरीतुं निरणयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *