के-पि-ए-सि ललिता दिवङ्गता।

कोच्ची- विख्याता कैरलीचलचित्रनटी के पि ए सि ललिता अस्माल्लोकान्निरगात्। सा ७४ वयस्का आसीत्। यकृत् सम्बन्धेन आमयेन पीडिता चिकित्सायामासीत्। पूर्णत्रयीपुरे स्वपुत्रस्य सिद्धार्थ भरतस्य गृहे ह्यस्तने रात्रौ आसीत् मृत्युः।
अद्य प्रातः ८-३० तः ११-३० वादनपर्यन्तम् अस्याः भौतिकदेहं पूर्णत्रयीपुरे लायं वेदिकायां दर्शनार्थं स्थाप्य तदनन्तरं तृशूर् वटक्काञ्चेरी देशे तदीयं भवनं नेष्यति। तत्र सायं संस्कारः भविष्यति।

नाटकाभिनये प्रवीणा ललिता के पि ए सि इति नाटकसङ्घे प्रमुखा आसीत्। तदानीं महेश्वरी इति नाम आसीत्। चलच्चित्ररंगमागता सा स्वनाम ललिता इति परिवर्तिता। अपि च नाटकसंघस्य नाम स्वनाम्नः पूर्वं योजिता च।

चलच्चित्रेषु नाटकेषु दूरदर्शनेषु च निरवधिकानि कथापात्राणि तया सह सजीवानि जातानि। कैरलीप्रेक्षकाणां मनसि अस्याः नाम चिरस्थायि भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *