बिच्चु तिरुमल दिवङ्गतः।

तिरुवनन्तपुरम्- प्रशस्तः कविः गानकारश्च बिच्चु तिरुमल वर्यः निर्यातः। स ८० वयस्कः आसीत्। तिरुवनन्तपुरस्थे निजीयचिकित्सालये अद्य प्रात एवास्य मृत्युरभवत्। हृदयाघातकारणात् चिकित्सायामासीत्।

चतुश्शताधिकानां चलच्चित्राणां कृते सहस्राधिकानि गानानि अनेन रचितानि। चलच्चित्रगीतानि भक्तिगीतानि चान्तर्भाव्य पञ्चसहस्राधिकानि गीतानि तस्य तूलिकया आविर्भूतानि। १९७० आरभ्य १९९० पर्यन्तं श्याम्, ए टि उम्मर्, जि देवराजन्, रवीन्द्रन्, इलयराजा इत्यादिभिः संगीतनिदेशकैः साकं बहूनि आस्वाद्यगीतानि अयं केरलीयेभ्यः प्रादात्।

बहवः पुरस्काराः अनेन अवाप्ताः।

Leave a Reply

Your email address will not be published. Required fields are marked *