संस्कृतसप्ताहाचरणं- समापनसभा।

तृशूर्- तृशूर् मण्डलस्तरीय संस्कृतसप्ताहस्य समापनसभा २०२१ सेप्तम्बर् ३० दिनाङ्के सायं त्रिवादने सम्पन्ना। तृशूर् मण्डलस्य शिक्षा उपनिदेशकस्य टी वी मदनमोहनस्य आध्यक्ष्ये समायोजिता सभा केरल राजस्वविभागमन्त्रिणा के राजन् वर्येण उद्घाटिता। सार्वजनीनशिक्षानिदेशकः के जीवन् बाबु वर्यः मुख्यसन्देशं प्रास्तौत्।

संस्कृतविभागस्य विशेषाधिकारिणी डो टी डी सुनीतिदेवी वर्या संस्कृतदिनसन्देशं प्रस्तुतवती।

संस्कृतभारत्याः अखिलभारतीयशिक्षणप्रमुखः तथा केन्द्र-साहित्य-अक्कादमी पुरस्कारजेता च डो-एच्-आर्- बिश्वास् वर्यः मुख्यप्रभाषणं व्यदधात्।

समारोहेस्मिन् प्रतिकृतिः इति संस्कृतचलच्चित्रस्य नेपथ्यप्रवर्तकानां समादरणमपि सम्पन्नम्। चलचित्रस्य कथा पटकथा निदेशनादिकं निरूढवन्तं डो-निधीष् गोपीवर्यं प्रशस्तः गानरचयिता बी-के- हरिनारायणन् वर्यः समादरितवान्। तृशूर्, चावक्काट्, इरिङ्ङालक्कुटा शिक्षामण्डलाधिकारिणः तथा संस्कृतसमितेः राज्यस्तरीय कार्यदर्शिणः एस्-श्रीकुमारस्य च सान्निध्यमभवत्।

समारोहे तृशूर् मण्डलस्य उपमण्डलशिक्षाधिकारिणः आशंसामार्पयन्। श्री बिजू केडी स्वागतं श्री जीस् वर्गीस् कृतज्ञतां च व्याहरताम्।

Leave a Reply

Your email address will not be published. Required fields are marked *